सङ्कट नाशन गणेश स्तोत्रम्
Audio soon
Lyrics
नारद उवाच । प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये ॥ 1 ॥ प्रथमं वक्रतुण्डं च, एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं, गजवक्त्रं चतुर्थकम् ॥ 2 ॥ लम्बोदरं पञ्चमं च, षष्ठं विकटमेव च । सप्तमं विघ्नराजं च, धूम्रवर्णं तथाष्टमम् ॥ 3 ॥ नवमं भालचन्द्रं च, दशमं तु विनायकम् । एकादशं गणपतिं, द्वादशं तु गजाननम् ॥ 4 ॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥ 5 ॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ 6 ॥ जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ 7 ॥ अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ 8 ॥ इति श्रीनारदपुराणे सङ्कष्टनाशनं नाम गणेश स्तोत्रम् ।
Benefits / purpose
विघ्ननिवारणं, सौभाग्यं, रक्षणं च कामयित्वा परम्परया पठ्यते।
Stotra Details
- Devata
- Ganesha